March 1, 2023

Exploring the Contemporary Relevance of Yoga Philosophy in India

LOKOGANDHAR ISSN : 2582-2705
Indigenous Art & Culture

Mausumi Akhuli, Research Student, L.N. Mithila University

Abstract: This study delves into the enduring significance of yoga philosophy in modern-day India, aiming to illuminate its relevance amidst the evolving societal, cultural, and global landscapes. As India undergoes rapid transformations, this research investigates how the principles of yoga, encompassing physical postures, ethical guidelines, and spiritual insights, can offer valuable insights and solutions to the challenges faced by individuals and society. Through an interdisciplinary approach, combining traditional wisdom with contemporary perspectives, the study seeks to unravel the timeless wisdom embedded in yoga philosophy and its potential to foster holistic well-being, ethical living, and a harmonious society in the 21st century.

वर्तमानकाले योगदर्शनस्य प्रासङ्गिकता

मौसुमी आखुली, शोधछात्रा, ल.ना.मिथिला विश्वविद्यालय

          भारतीयानामास्तिकदर्शनमध्ये योगदर्शनम् अति प्राचीनम्। योगशास्त्रस्य प्रथमोपदेष्टा भगवान् हिरण्यगर्भः – इति मतं प्रचलितम्। प्राचीनकालादारभ्य अस्य योगशास्त्रस्य तत्त्वानां महर्षिणा पतञ्जलिना सुविन्यस्तरूपेण उपस्धापनां कृतम्। पतञ्जलेः योगसूत्रमवलम्ब्य इदं योगदर्शनम् भारतीयदर्शनमध्ये महत् स्थानमधिक्रियते।

            ख्यातनामा ऋषिवरेण्ययोर्मध्ये महर्षिणा पतञ्जलिना प्रणीतं योगदर्शनस्य प्रतिपाद्यो विषयो भवति योगः। शास्त्रेऽन्यस्मिन् योगशब्दस्य विभिन्नार्थविशिष्टं लक्षणं प्रदत्तम्। योगशास्त्रकारेण महामुनिना पतञ्जलिना प्रोक्तम् –“ चित्तवृत्तेः निरोधः योगः” एव सर्वश्रेष्ठं मानसिकं बलम्।[1] मोक्षधर्मे अस्ति – “नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं वलम्” इति। अर्थात् समाधिवलं येन लभ्यते तेन वशीपुरुषः सर्वाङ्गीनं शुद्धिं भुत्वा त्रितापमुक्तिं लभते। शास्त्रे अपि कथितम्[2] – यस्य समाधिसिद्धिर्भवति तस्य अस्मिन् जन्मनि मुक्तिलाभं सम्भवति। श्रुतौ अपि चास्ति –

“नाविरतो दुश्चरितान्नाशान्तो नासमाहितः।                                                 

नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्।।”[3]

शुकदेवस्य पिता व्यासदेवोऽपि स्वयंकृतयोगभाष्ये योगविषये उक्तवान् – “योगः समाधिरिति”।[4] श्रीमद्भगवद्गीतायां योगसम्बन्धे परमेश्वरस्य भगवतः श्रीकृष्णस्य मुखनिःसृता वाणी- चित्तचाञ्चल्यकारिणी इन्द्रियाणि संयम्य एकाग्रचित्तेन परमपुरुषस्य ध्यानमेव योगः। कर्मफलं प्रति आसक्तो न भुत्वा स्वधर्मोचितं कर्म करणीयम्। इत्येवं कर्मणः सिद्धिः असिद्धिः च विषये यः समबुद्धिः स एव योगः।[5] अपि च निष्कामः कर्मयोगः एव योगस्य सर्वाङ्गीनं कौशलमिति।[6]

            योगस्य विविधानि प्रकाराणि सन्ति। यथा – कर्मयोगः ,भक्तियोगः ,राजयोगः ,हठयोगः ,तन्त्रयोगः इति। तन्मध्ये महर्षिपतञ्जलिना प्रणीतं योगः राजयोगस्य अन्तर्गतः। योगसूत्रकारेण पतञ्जलिना व्याख्यातम् – योगसेवया चित्तः उपरमते। अर्थात् पार्थिवविषयान् प्रति आसक्तिः दूरीभवति। अनन्तरं यमनियमादि अष्टाङ्गयोगावलम्बनेन योगी समाधिस्थं भवति। अष्टाङ्गानां योगानां मध्ये प्रथमपञ्चाङ्गानि वहिरङ्गसाधनानि। अर्थात् साक्षाद्रूपेण एतान्यङ्गानि समाधेः उपकारकः न भवन्ति। धारणाध्यानसमाधयः योगस्य अन्तरङ्गसाधनानि। यतः एतान्यङ्गानि साक्षाद्रूपेण समाधेः जनकं भवति। परन्तु अधिकांशजनानां मते अयम् अष्टाङ्गयोगः वहुसमयसापेक्षं वहुकष्टसाधनं च। अतः प्रश्नः भवति – यदि अष्टाङ्गयोगः वहुकष्टसाध्यः समयसापेक्षः तर्हि अस्मिन् कलियुगे समाधिलाभे कस्यापि इच्छा भवति न वेति। अष्टाङ्गयोगसाधनस्य अन्यत् किमपि सरलतमुपायमस्ति न वा। उत्तरमस्ति- पतञ्जलेः योगसाधनायाः स्तरमधिकम् परन्तु योगस्य नियमं कठिनं नास्ति। कठिनं भवति तपस्यावैराग्ययोः निष्ठासहकारेण पालनम्। अस्मिन् कलियुगे मानवानां साधनायाः कृते समयं नास्ति। यदि समयमस्ति तर्हि तपस्यावैराग्यपालने निष्ठा नास्ति। अस्तु, पतञ्जलेः कथितम् अष्टाङ्गयोगसाधनं सरलीकरणाय महर्षिणा व्यासदेवेन उत्तमोपायः दर्शितः।

            पतञ्जलेः योगसूत्रस्य भाष्यकारः व्यासदेवः योगशब्देन समाधिः सुचितः। तस्य मते समाधिः द्विविधः। सम्प्रज्ञातः असम्प्रज्ञातश्च। सम्प्रज्ञातसमाधेः अपरं नाम सवीजसमाधिः , या शुद्धसमाधिर्नास्ति। अर्थात् अस्मिन् समाधिस्तरे चित्तवृत्तिः पूर्णतया निरोधे असमर्थो भवति। चित्तभूमिः पञ्चप्रकारकः अस्ति यथा क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धं च। चित्तभूमेः विभागमध्ये प्रथमत्रयं समाधिलाभाय योग्यो नास्ति। यदा चित्तः एकाग्रभूमौ समाधिस्थं भवति तदा अयं योगः सम्रज्ञातयोगरूपेण आख्यायते। सम्प्रज्ञातसमाधिः असम्प्रज्ञातसमाधेः सोपानम्। परन्तु असम्प्रज्ञातसमाधिः योगसमाधेः पूर्णावस्था एव। निरालम्बनवैराग्येण यदा चित्तवृत्तेः विरामो भवति तदा अयं समाधिः सम्भवति। समाधेः इयमवस्था निर्विषयकावस्था एव। असम्प्रज्ञातसमाधिना योगी जीवत्काले कैवल्यं लभते। यतः अनेन समाधिना प्रारब्धकर्मणः सम्पूर्णतया विनाशो भवति। एतौ समाधौ मुक्तेः सहायकौ स्तः। सम्प्रज्ञातः अर्थात् सम्यक् प्रज्ञाविशिष्टः। अस्मिन् अवस्थायां ध्येयविषयस्य सम्पूर्णं ज्ञानं भवति। सम्प्रज्ञातसमाधेः चत्वारः स्तराः सन्ति। यथा सवितर्क-सविचार-सानन्द-सास्मितश्च। अस्मिन् विषये पातञ्जलसूत्रम् –

                                                “वितर्कविचारानन्दास्मितारूपागमात् सम्प्रज्ञातः” इति।[7]

यथा धनुर्धराः सर्वप्रथमे स्थूललक्ष्यं भेदयन्ति तद्वत् योगिनोऽपि आदौ स्थूलपाञ्चभौतिकविषयेन सह साक्षात्कारं कुर्वन्ति – इत्यस्ति सवितर्कसमाधिः। सविचारसमाधेः अवस्थायां पञ्चभूतस्य कारणस्वरूपं पञ्चतन्मात्रेण सह साक्षात्कारं भवति। सानन्दावस्थायां इन्द्रियाणि रजस्तमगुणहीनरूपेण तिष्ठन्ति। सत्त्वगुणस्य प्रावल्यहेतु अस्मिनवस्थायां योगिनः चित्ते आनन्दस्य उत्पत्तिर्भवति। तदनन्तरम् इन्द्रियसमूहानां कारणं यः सात्त्विकः अहङ्कारः स ध्यानस्य विषयो भवति। इति अहङ्कारः पुरुष इव अवगम्यते- इति भवति सास्मितसमाधिः। परन्तु अस्यामवस्थायां चित्तवृत्तिः पूर्णतया निरुद्धो न भवति। संस्कारवीजमपि न नश्यति। किन्तु असम्प्रज्ञातसमाधेः अवस्थायां वृत्तेः विरामो भवति। पतञ्जलिः उवाच –

                                                “विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः” इति।[8]

अस्यामवस्थायां संस्कारमात्रमेव तिष्ठति। भाष्यकारस्य व्यासदेवस्य मतम् – “सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधः चित्तस्य समाधिः असम्प्रज्ञातः , तस्य परं वैराग्यम् उपायः” इति।[9]

            परन्तु वर्तमानसमये मनुष्याः मनसः इन्द्रियस्योपरि आधिपत्यविस्तारे असमर्थाः भवन्ति। कारणं भवति विषयभोगं प्रति अत्याधिकासक्तिः , अपि च संयमस्य अभावः। आधुनिकयुगे यः योगः अस्माकं दृश्यते प्रायः सर्वत्र स इन्द्रियसुखभोगेन सह युक्तम्। कामेन मद्यपानेन आसक्तो भूत्वा यः आत्मानं योगीरूपेण उपस्थापनां करोति स न योगी। अधिकन्तु स कपटरूपेण परिचीयते। एवमपि यः योगी यौगिकसिद्धेः प्रति आकृष्टं भवति सोऽपि यथार्थयोगी नास्ति। योगी यदि योगावलम्बनेन किञ्चिदपि विषयं प्राप्तुमिच्छति तदपि तस्य योगः व्यर्थं याति। इदानीन्तनकाले अपि च एका घटना सर्वत्र दृश्यते या योगव्यायामरूपेण अस्माभिः परिचिता। लक्षणीयं विषयं भवति केचिज्जनाः अष्टाङ्गानां योगानां मध्ये तृतीयाङ्गं अर्थात् आसनं कुर्वन्ति। केचित् वा प्राणायामस्य , केचित् वा आसनं प्राणायामम् इति द्विविधाङ्गस्य अनुशीलनं कुर्वन्ति। परन्तु ते केवलं स्वास्थलाभाय एवं कुर्वन्ति , न तु मोक्षलाभाय। मोक्षलाभार्थं अष्टाङ्गयोगस्य क्रमानुसारेण अनुशीलनं करणीयम्। योगाचार्येण पतञ्जलिना कथितम् अष्टाङ्गयोगानां मध्ये प्रथमं स्तरं भवति यमः। यमस्यापि पञ्चस्तराः सन्ति। तन्मध्ये अहिंसा प्रथमोऽस्ति। अतः कोऽपि जनः एकाधारे जीवहिंसां करोति , अन्यसमये योगव्यायामं करोति स केवलमेव केवलं समयस्य अपचयं करोति। अस्तु, देहरक्षणाय व्यायामम् उचितम्। परन्तु समाधिलाभे तेषामभिलाषः सदा व्यर्थं याति। परन्तु यदि मानवाःप्रत्येकजीवस्य उपरि दया-क्षमा-सहानुभूतिं च प्रदर्शयन्ति , हिंसां परित्यज्य अहिंसाम् अवलम्ब्यन्ते , साधनायाः कृते योगस्य स्तरसमूहानां क्रमान्वयेन अभ्यासं कुर्वन्ति तर्हि समाधिलाभं कथं न सम्भवति। अवश्यमेव सम्भवति। किन्तु अस्मिन् विषये  प्रत्येकमनुष्याणां विचारं करणीयम् आवश्यकम्।

            समाधिलाभाय संयमधारणम् अत्यावश्यकम्। परन्तु साधारणजीवाः संयमधारणे कथं समर्थाः भविष्यन्ति। अस्याः समस्यायाः समाधानकृते ऋषिमुनिना नानोपायः दर्शितः। योगीश्रेष्ठः पतञ्जलिः कथयति-

                                                “अभ्यासवैरागाभ्यां तन्निरोधः” इति।[10]

अभ्यासवैराग्यमेव मोक्षसाधनस्य सरलमुपायम्। मनः इन्द्रियाणि च चपलानि – अस्मिन् विषये सन्देहो नास्ति। किन्तु अभ्यासेन वैराग्येण च मनः वशीभूतं भवति। यथा क्षुधासमये यावत् परिमाणं भोजनं कृतम् तावत् परिमाणेन तृप्तिः शक्तिश्च अनुभूयते , तद्वत् योगप्रभावेण मनः विषयासक्त्याः मुक्तं भवति , अप्राकृतमानन्दमनुभवति च। श्रीमद्भगवद्गीतायामपि भगवान् श्रीकृष्णः प्रियसखम् अर्जुनम् उपदिशति –

                                                “अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते” इति।[11]

वैदिकयुगे मनुष्याः कृच्छसाधनेन वैराग्येण तपसा च जीवनधारणं कृतवन्तः। पागञ्जलसूत्रे उल्लिखितमस्ति –

                                                “तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” इति।[12]

तपसा वैराग्येण च आनन्दमनुभूयते। पराशरपुत्रस्य व्यासदेवस्य वाक्यमपि स्मरणीयम् – “पुरुषार्थशुन्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति”।[13] इयं चितिशक्तिः अन्तरङ्गाशक्तिः वा अप्राकृतोऽस्ति। अद्वैतवादिनः मते कैवल्यं भवति परमब्रह्मणि एकीभूतावस्था एव। परन्तु पतञ्जलिना कथ्यते – कैवल्यं भवति दिव्यान्तरङ्गाशक्तिः , येन जीवाः स्वस्वरूपम् उपलब्धुं समर्थाः भवन्ति। श्रीचैतन्यमहाप्रभुः ‘शिक्षाष्टकम्’ ग्रन्थे इयमवस्थां “चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापनम्” इति उक्तवान्। श्रीमद्भागवते उल्लिखितमस्ति – “स्वरूपेण व्यवस्थितिः” इति।[14] वेदान्तसूत्रे अस्मिन् विषये प्रमाणममस्ति – “आनन्दमयोऽभ्यासात्”[15] इति। अतः अयमप्राकृतानन्दः एव योगस्य परमो लक्ष्यः। अतः सर्वेषां कृच्छसाधना-तपसा-वैराग्येण च जीवनधारणं करणीयम्। विषयभोगेन मनुष्याः स्वल्पसमयं यावत् जागतिकमानन्दं प्राप्तुं समर्थाः भवन्ति। परन्तु अप्राकृतमानन्दं पारमार्थिकसुखं वा प्राप्तुमसमर्थाः भवन्ति।

            भाष्यकारस्य मते अपि च एकं विषयं स्मरणीयम्। अभ्यासवैराग्येण मनः स्थिरं भवति इति सत्यम्। परन्तु व्यासदेवस्य मते कैवल्यलाभे अभ्यासवैराग्ययोः साधनं प्रयोजनम् , अपि च ईश्वरस्यानुग्रहमपि आवश्यकम्। अस्मिन् प्रसङ्गे द्रष्टा, दृश्य, द्रष्टा कथं  सुखं दुःखमनुभवति , कः पुरुषः , कः पुरुषविशेषः इति विषये आलोचनां करणीयम्। तर्हि विषयं सुस्पष्टं भविष्यति। पतञ्जलिः मन्यते – द्रष्टापुरुषः चैतन्यस्वरूपः। अस्माकं समीपे यत् प्रकाशते ज्ञायते वा तद् दृश्यमेव।[16] अर्थात् द्रष्टा एव पुरुषः। किन्तु पुरुष-पुरुषविशेषयोर्मध्ये पार्थक्यमस्ति। एतद् विषये पातञ्जलसूत्रम् –

                                                “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः ईश्वरः” इति।[17]

अर्थात् अविद्यादयः क्लेशाः।[18] कुशलाकुशलानि कर्माणि। तस्य अर्थात् कर्मणः फलं विपाकः। यदा विपाकमनुभूयते तदा तदनुभूतिजातं वासनाम् आशयं कथ्यते। क्लेशकर्मविपाकाशयः मनसि वर्तमानं स्थित्वा पुरुषे व्यपदिष्टं भवति। तदा स पुरुषः फलस्य भोक्तारूपेण ज्ञायते। यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते तद्वत् – इत्यस्ति पुरुषस्यावस्था , येन तस्य कर्मफलभोगं भवति। परन्तु योऽनेन भोगेन अपरामृष्टः अर्थात् अस्पृष्टः अथवा असंयुक्तः स पुरुषविशेषः ईश्वरः। वहवः केवलिनः त्रीणि वन्धनानि ( प्राकृतिकः , वैकारिकः, दक्षिणः) छित्वा कैवल्यं प्राप्ताः। ते मुक्तपुरुषाः। परन्तु ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी। अर्थात् स सदैव मुक्तः , सदैव ईश्वरः इति। इत्यस्ति पुरुषेण सह पुरुषविशेषस्य पार्थक्यम्। पातञ्जलमते कैवल्यलाभे अस्य पुरुषविशेषस्य सहायता अपि  आवश्यकम्। तेन पतञ्जलिः उवाच- “ईश्वरप्रणिधानाद् वा”।[19] प्रणिधान अर्थात् भक्तिविशेषः। हृदयस्य अन्तरतमप्रदेशे ईश्वरस्य सत्तानुभवपूर्वकः तस्मिन् ईश्वरे आत्मनिवेदनमेव भक्तिः। अर्थात् ईश्वरस्य कृपया वयं सर्वाणि कार्याणि कर्तुं समर्थाः भवन्ति। इत्यनुभवस्य नाम भवति ईश्वरे सर्वकर्मसमर्पणम्। शास्त्रे अपि कथितम् –

“कामतोऽकामतो वापि यत् करोमि शुभाशुभम्। 

तत् सर्वं त्वयि सन्नस्तं त्वत्प्रयुक्तः करोम्यहम्।।”[20]

ईश्वरः भक्तं प्रति यदनुग्रहं करोति तदभिध्यानमिति आख्यायते। सर्वोपरि ईश्वरः मानवान् परमकल्याणं साधयति। भाष्यकारस्य मते ईश्वरस्यानुग्रहं विना किमपि कार्यं पूर्णतया न सम्पादयति। विशेषतः सांसारिकसुखं प्रायशः परपीडात् उत्पद्यते। सांसारिकसुखदुःखानि कर्मणः जायन्ते। परन्तु ईश्वरप्रणिधानरूपकर्मणा ईश्वरस्य अनुग्रहं प्राप्यते , येन पुरुषः पारमार्थिकं विशेषज्ञानं लभते। इति व्यासदेवेन अभिहितम्। अतः महर्षिणा पतञ्जलिना प्रोक्तम् – परमेश्वरे सर्वकर्मफलसमर्पणमेव योग इति। श्रीमद्भगवद्गीतायां भगवतः श्रीकृष्णस्य वाणी –

“योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। 

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः।।”[21]

                                          ************

ग्रन्थसङ्केतः

स.पा. – समाधिपादः                                                वि.पु. – विष्णुपुराणम्                                                           क.उ. – कठोपनिषद्                                                           स.पा.व्या.भा. – समाधिव्यासभाष्य                                           श्री.भ.गी. – श्रीमद्भगवद्गीता                                          सा.पा. – साधनपाद                                                             श्री.भा. – श्रीमद्भागवतम्                                                यो.सू. – योगसूत्रम्                                                               कै.पा. – कैवल्यपाद                                                 वे.सू. – वेदान्तसूत्रम्

सहायकग्रन्थसूची

  1. रयः ,इ ,आइ , योगदर्शनम् , मधुपुरम् , कापिलमठः , सन् 1345, 1ला आषाढ, इं 1938, 16 जुन ।
  2. वसु , ड. सुमिता ,भारतीयदर्शनसमीक्षा, सदेश, 101 सि , विवेकानन्द रोड, कलकाता -6 ।
  3. चक्रवर्तिठाकुर , विश्वनाथ, श्रीमद्भगवद्गीता ,श्रीचैतन्यगौडीयमठः , ईशोद्यान, मायापुरः।
  4. तीर्थ, श्री स्वामी ओमानन्द , पातञ्जलयोगप्रदीप, गीताप्रेस, गोरक्षपुर , गोविन्दभवन कार्यालय, कलकाता ।
  5. श्रीमद्भागवतमहापुराणम् (मूलमात्रम्), गीताप्रेस, गोरक्षपुर , 273005, गोविन्दभवन कार्यालय, कलकाता ।
  6. वेदान्ततीर्थ,  पण्डित दुर्गाचरण सांख्य , देव साहित्य कुटिर प्राइभेट लिमिटेड, झामापुकुर लेन, कलकाता , 700009
  7. दत्तः, धीरेन्द्रमोहनः, चाटार्जी, सतीशचन्द्रः , भारतीयदर्शनस्य सूचना, कलकाता, 1984
  8. उपनिषद् (ईशादि नौ उपनिषद्) , गीता प्रेस, गोरक्षपुर, गोविन्दभवन कार्यालय, कलकाता ।
  9. Madhavacharya, Bibliotheca Indica, Sarvadarsana Sangraha, J.Thomas,At the Baptist Misssion Press, 1858, Calcutta
  10. शर्मा, चन्द्रधरः ,An Critical Survey of Indian Philosophy , Delhi , Motilal Benarasi Das।                              

***********


[1]  योगदर्शन, इ,आइ,रय, 1/2, पृष्ठा 19 ।

[2] विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि। प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात्।। , वि.पु. 6/7/35, पृष्ठा 448

[3] उपनिषद् , हरिकृष्णदास गोयेन्दका, क.उ. 1/2/24 , पृष्ठा 89

[4] योगदर्शन, इ,आइ,रय, स.पा.व्या.भा , 1/1, पृष्ठा 13

[5] सिद्धसिद्धोः समो भूत्वा समत्वं योग उच्यते। , श्री.भ.गी. 2/48, पृष्ठा 58

[6] योगः कर्मसु कौशलम्। श्री.भ.गी. 2/50, पृष्ठा 59

[7] योगदर्शन, इ,आइ,रय, स.पा. , 1/17, पृष्ठा 41

[8] योगदर्शन, इ,आइ,रय, स.पा. , 1/18, पृष्ठा 44

[9] योगदर्शन, इ,आइ,रय, स.पा.व्या.भा , 1/8, पृष्ठा 44

[10] योगदर्शन, इ,आइ,रय, स.पा. , 1/12, पृष्ठा 37

[11] श्री.भ.गी. 6/35, पृष्ठा 181

[12] योगदर्शन, इ,आइ,रय, सा.पा. , 2/1, पृष्ठा 104

[13] योगदर्शन, इ,आइ,रय, कै.पा. , 4/34, पृष्ठा 307

[14] श्री.भा. 2/10/6 , पृष्ठा 108

[15] वेदान्तदर्शनम् , प.दुर्गाचरण सांख्य वेदान्ततीर्थ,  1/1/12 ,पृष्ठा 171

[16] योगदर्शन, इ,आइ,रय, सा.पा. , 2/17, पृष्ठा 127

[17] योगदर्शन, इ,आइ,रय, स.पा. , 1/24, पृष्ठा 56

[18] योगदर्शन, इ,आइ,रय, सा.पा. , 2/3, पृष्ठा 106

[19] योगदर्शन, इ,आइ,रय, स.पा. , 1/23, पृष्ठा 55

[20] सर्वदर्शनसंग्रह , माधवाचार्य,  पृष्ठा 171

[21] श्री.भ.गी. 6/47, पृष्ठा 190